|
|
 |
 |
|
|
३ आरण्यकपर्व.jpg)
॥ श्रीः ॥
3.312. अध्यायः 312
Mahabharata - Vana Parva - Chapter Topics
युधिष्ठिरादिभिः काम्यकवनात्पुनर्द्वैतवनंप्रत्यागमनम् ॥ 1 ॥ तत्रकेनचिन्मृगेण तरुसङ्घर्पवशात्स्वविपाणलग्नेन ब्राह्मणस्यारणिना सह पलायनम् ॥ ब्राह्मणप्रार्थनया तदानयनाय पाण्डवैस्तदनुधावनम् ॥ ततस्तौः सुदूरं स्वापकर्पणपूर्वकमन्तर्हिते तस्मिन्श्रान्त्या वटमूले समुपवेशनम् ॥
Mahabharata - Vana Parva - Chapter Text
जनमेजय उवाच। 3-312-0x(2869)(27874)
एवं हृतायां भार्यायां प्राप्य क्लेशमनुत्तमम्।
प्रतिपद्य ततः कृष्णां किमकुर्वत पाण्डवाः ॥ 3-312-1(27875)
वैशम्पायन उवाच। 3-312-2x(2870)
एवं हृतायां कृष्णायां प्राप्य क्लेशमनुत्तमम्।
विहाय काम्यकं राजा सह भ्रातृभिरच्युतः ॥ 3-312-2(27876)
पुनर्द्वैतवनं रम्यमाजगाम युधिष्ठिरः।
स्वादुमूलफलं रम्यं विचित्रबहुपादपम् ॥ 3-312-3(27877)
अनुभुक्तफलाहाराः सर्व एव मिताशनाः।
न्यवसन्पाण्डवास्तत्रकृष्णया सह भार्यया ॥ 3-312-4(27878)
वसन्द्वैतवने राजा कुन्तीपुत्रो युधिष्ठिरः।
भीमसेनोऽर्जुनश्चैव माद्रीपुत्रौ च पाण्डवौ ॥ 3-312-5(27879)
ब्राह्मणार्थे पराक्रान्ता धर्मात्मानो यतव्रताः।
क्लेशमार्च्छन्त विपुलं सुखोदर्कं परंतपाः ॥ 3-312-6(27880)
तस्मिन्प्रतिवसन्तस्ते यत्प्रापुः कुरुसत्तमाः।
वने क्लेशं सुखोदर्कं तत्प्रवक्ष्यामि ते शृणु ॥ 3-312-7(27881)
अरणीसहितं भाण्डं ब्राह्मणस्य तपस्विनः।
मृगस् घर्षणस्य विपाणे समसज्जत ॥ 3-312-8(27882)
तदादाय गतो राजंस्त्वरमाणो महामृगः।
आश्रमान्तरितः शीघ्रं प्लवमानो महाजवः ॥ 3-312-9(27883)
ह्रियमाणं तु तं दृष्ट्वा स विप्रः कुरुसत्तम।
त्वरितोऽभ्यागमत्तत्रअग्निहोत्रपरीप्सया।
`तेषां तु वसतां तत्र पाण्डवानां महारथम्' ॥ 3-312-10(27884)
अजातशत्रुमासीनं भ्रातृभिः सहितं वने।
आगम्य ब्राह्मणस्तूर्णं संतप्तश्चेदमब्रवीत् ॥ 3-312-11(27885)
अरणीसहितं भाण्डं समासक्तं वनस्पतौ।
मृगस्य घऱ्षमाणस्य विषाणे समसज्जत ॥ 3-312-12(27886)
तमादाय गतो राजंस्त्वरमाणो महामृगः।
आश्रमात्त्वरितः शीघ्रं प्लवमानो महाजवः ॥ 3-312-13(27887)
तस्य गत्वा पदं राजन्नासाद्य च महामृगम्।
अग्निहोत्रं न लुप्येत तदानयत पाण्डवाः ॥ 3-312-14(27888)
ब्राह्मणस्य वचः श्रुत्वा सन्तप्तोऽथ युधिष्ठिरः।
धनुरादाय कौन्तेयः प्राद्रवद्भ्रातृभिः सह ॥ 3-312-15(27889)
सन्नद्धा धन्विनः सर्वे प्राद्रवन्नरपुङ्गवाः।
ब्राह्मणार्थे यतन्तस्ते शीघ्रमन्वगमन्मृगम् ॥ 3-312-16(27890)
कर्णिनालीकनाराचानुत्सृजन्तो महारथाः।
नाविध्यन्पाण्डवास्तत्र पश्यन्तो मृगमन्तिकात् ॥ 3-312-17(27891)
तेषां प्रयतमानानां नादृश्यत महामृगः।
अपश्यन्तोमृगं श्रान्ता दुःखं प्राप्ता मनस्विनः ॥ 3-312-18(27892)
शीतलच्छायमागमय् न्यग्रोधं गहने वने।
क्षुत्पिपासापरीताङ्गाः पाण्डवाः समुपाविशन् ॥ 3-312-19(27893)
तेषां समुपविष्टानां नकुलो दुःखितस्तदा।
अब्रवीद्भ्रातरं श्रेष्ठममर्षात्कुरुनन्दनम् ॥ 3-312-20(27894)
नास्मिन्कुले जातु ममज्ज धर्मो
न चालस्यादर्थलोपो बभूव।
अनुत्तराः सर्वभूतेषु भूप
संप्राप्ताः स्मः संशयं किंनु राजन् ॥ 3-312-21(27895)
इति श्रीमन्महाभारते अरण्यपर्वणि आरण्येयपर्वणि द्वादशाधिकत्रिशततमोऽध्यायः ॥ 312 ॥
Mahabharata - Vana Parva - Chapter Footnotes
3-312-8 अरणीसहितं मन्थं इति झय पाठः। अरणी उत्तराधरेऽग्निमथनकाष्ठे रताभ्यां रसहितं मन्थं निर्मथनदण्डम् ॥ 3-312-9 आश्रमान्तरितः आश्रमदूरगतः ॥ 3-312-14 पदं मार्गे चिह्नं गत्या प्राप्थ। तेनैव पथा तदानयत ॥ 3-312-21 धर्मो न ममज्ज धर्मलोपोऽर्थलोपश्च नाभूत्। आलस्यादित्युपचर्यते। त्वयि अनुत्तराः प्रतिवाक्यरहिताः सर्वभूतेषु कार्यार्थे उपस्थिते ओमित्येव वदामो नतु वाक्यान्तरमित्यर्थः। संशयं ब्राह्मणस्य कर्मलोपनिमित्तं दोषम् ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|